वयं पार्षदा धन्यनेपालजन्याः

Mukunda, Sharma, मुकुन्द शर्मा, pallawa, पल्लव

मुकुन्द शर्मा

(रामचन्द्रभक्तिकाव्यस्य कतिपयानि पद्यानि)
गजारिप्रियश्चारुकण्ठाग्रजारि—
मुर्रारिर्हरिः पङ्क्तिकण्ठप्रहारी
खरारिर्वनप्रान्तचारी मृगारि—
वर्सेन्मानसे शाङ्र्गकोदण्डधारी ।।

अहो राम ! बाल्यादहं भक्तिभावाद्
भवत्पादपद्मेऽभवं राजहंसः
सुकालोऽयमुत्साहपूर्णोऽनुयातो
यतः प्राप्यते शाश्वती काव्यधारा ।।

 

पुराऽऽसीद् विशीर्णाऽसुरैर्दुष्टचित्तैः
प्रभोर्जन्मनाऽभूद् धरा धामकल्पा
अहो राम ! जन्मोत्सवे सुप्रसन्नः
पठन् संस्मरञ्चारुवार्तां लिखामि ।।

वसन् पञ्चवट्या नितान्ते वनान्ते
मुनीनां तपोजीवनानां सहायः
मृतानामृषीणामपश्यस्त्वमस्थी—
न्यभूल्लोचनाभ्यां तवैवाश्रूपातः ।।

तपोभूमिनेपालदेशे विशेषे
नदीनांतटे खर्वटेऽस्मिन् वनान्ते
विशीर्णान्यहो ! ह्यस्थिखण्डानि दृष्ट्वा
निरुद्धानि किं नेत्रनीराणि राम ! ।।

भवज्जन्मनाभूर्यशोमण्डिताऽभू—
दियं माधवी चारुवेलाऽनुयाता
अहो ! मे मतिः पद्मिनीव प्रसन्ना
भवेत् सङ्गतेयं प्रभोः पादपद्मे ।।

निशायामुषायां दिने वा दिनान्ते
नितान्तस्थले जाङ्गले वा जनौघे
इयं लेखनी नाथ ! हस्तंगता मे
भवद्भक्तिगाथां प्रवाहीकरोतु ।।

रघोः सन्ततिदीनबन्धुर्दयालु—
निरीहाय सत्काव्यभावाभिरामः
सुरक्षाव्रती रक्षणं मे करोतु
सदा सज्जनानां सहायः सजायः ।।

गतो बाल्यभावो व्यतीतं युवत्वं
तथा प्रौढताऽनिच्छयाऽपि प्रपन्ना
अहङ्कार ऐश्वर्यदारादिजन्योऽ—
धुना राम ! ते पादपद्माश्रितोऽस्तु ।।

खलत्वं ममत्वाधिकाराभिमानाऽ—
दिजन्यं स्थितं चित्तवृत्तावनादिम्
समग्रं रमानाथ ! ते चारूपीठे
सरोजन्मकल्पं कथं कल्पयामि ।।

धरेयं हि वैकुण्ठलोेकायमाना
धरानन्दिनी सिन्धुकन्यासमाना
प्रभुः पुण्डरीकाक्षरुद्दामकीर्तिः
वयं पार्षदा धन्यनेपालजन्याः ।।

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.